कौमुदीपरीक्षा १. सन्धिः (वाल्मीकिवर्गः)
प्रश्नाः
१. व्यञ्जनसन्धिः
I. सन्धिकार्यं कुरुत।
1. सन्धि + छेदः
2 .महत् + नगरम्
3 .कृष्णम् + वन्दे
4. सुप् + अन्तः
5. वाक् + वादिनी
6. वाक् + मुनिः
7. वाक् + श्रेष्ठः
8. तत् + अनन्तरम्
9. गङ्गा + छत्रम्
II. विच्छेदं कुरुत।
1. लक्ष्मीछाया
2. वाङ्मयम्
3. अर्थच्छटा
4. विच्छेदं कुरुत
5. जगदीशः
6. अब्जः
7. तन्मात्रम्
8. सम्राडशोकः
9. चिद्रूपम्
२. विसर्गसन्धिः
I. सन्धिकार्यं कुरुत।
1.तपः + वनम्
2.सूर्यः + उदयति
3.मनः + रुग्णः
4.सः + पठति
5.सर्वैः + अपि
6.रामः + वदति
7.भानुः + उदयति
निः + शङ्कम्
II. विच्छेदं कुरुत।
1.तमोगुणः
2.अर्जुनो जयति
3.बालका लिखन्ति
4.निश्चलः
5.रामष्ठक्कुरः
6.दुस्तरः
7.मुनेर्यज्ञः
शङ्करप्रभुतिभिर्देवैस्सदा
उत्तराणि
१. व्यञ्जनसन्धिः
I. सन्धिकार्यं कुरुत।
1. सन्धि + छेदः – सन्धिच्छेदः (तुगागमः)
2. महत् + नगरम् – महन्नगरम् (अनुनासिकत्वम्)
3. कृष्णम् + वन्दे – कृष्णं वन्दे (मोऽनुस्वारः)
4. सुप् + अन्तः – सुबन्तः (जश्त्वम्)
5. वाक् + वादिनी – वाग्वादिनी (जश्त्वम्)
6. वाक् + मुनिः – वाङ्मुनिः (अनुनासिकत्वम्)
7. वाक् + श्रेष्ठः (अत्र पाठ्यक्रमे निर्दिष्टं सन्धिकार्यं नास्ति।)
8. तत् + अनन्तरम् – तदनन्तरम् (जश्त्वम्)
9. गङ्गा + छत्रम् – गङ्गाच्छाया/गङ्गाछाया (विकल्पेन तुगागमः)
II. विच्छेदं कुरुत।
1. लक्ष्मीछाया – लक्ष्मी + छाया (विकल्पेन तुगागामः)
2. वाङ्मयम् – वाक् + मयम् (अनुनासिकत्वम्)
3. अर्थच्छटा – अर्थ + छटा (तुगागमः)
4. विच्छेदं कुरुत – विच्छेदम् + कुरुत (मोऽनुस्वारः)
5. जगदीशः – जगत् + ईशः (जश्त्वम्)
6. अब्जः – अप् + जः (जश्त्वम्)
7. तन्मात्रम् – तत् + मात्रम् (अनुनासिकत्वम्)
8. सम्राडशोकः – सम्राट् + अशोकः (जश्त्वम्)
9. चिद्रूपम् – चित् + रूपम् (जश्त्वम्)
२. विसर्गसन्धिः
I. सन्धिकार्यं कुरुत।
1. तपः + वनम् – तपोवनम् (उत्वं गुणः च)
2. सूर्यः + उदयति – सूर्य उदयति (लोपः)
3. मनः + रुग्णः – मनोरुग्णः (उत्वं गुणः च)
4. सः + पठति – स पठति (लोपः)
5. सर्वैः + अपि – सर्वैरपि (रुत्वम्)
6. रामः + वदति – रामो वदति (उत्वं गुणः च)
7. भानुः + उदयति – भानुरुदयति (रुत्वम्)
8. निः + शङ्कम् – निश्शङ्कम् (सत्वम्)
II. विच्छेदं कुरुत।
1. तमोगुणः – तमः + गुणः (उत्वं गुणः च)
2. अर्जुनो जयति – अर्जुनः + जयति (उत्वं गुणः च)
3. बालका लिखन्ति – बालकाः + लिखन्ति (लोपः)
4. निश्चलः – निः + चलः (सत्वम्)
5. रामष्ठक्कुरः – रामः + ठक्कुरः (सत्वम्)
6. दुस्तरः – दुः + तरः (सत्वम्)
7. मुनेर्यज्ञः – मुनेः + यज्ञः (रुत्वम्)
8. शङ्करप्रभुतिभिर्देवैस्सदा – शङ्करप्रभुतिभिः + देवैः + सदा (रुत्वं सत्वं च)