CBSE

जटायोः शौर्यम् Class 10 CBSE संस्कृत

श्लोक 1

सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना॥

पदच्छेद

सा तदा करुणा वाचः विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्श आयतलोचना॥

अन्वय

तदा करुणा वाचः विलपन्ती सुदुःखिता सा (सीता) वनस्पतिगतं गृध्रं ददर्श।

हिन्दी अनुवाद

तब करुण वाणी में रोती हुई, बहुत दुखी उस सीता ने पेड़ पर बैठे जटायु को देखा।

भावार्थ

रावणः सीतायाः अपहरणं कृतवान्। रावणः सीताम् आकाशमार्गेण नीयमानः आसीत्। तदा सा दुःखी भवति रुदति च। तस्मिन् समये सीता वृक्षेषु उपविष्टं जटायुं पश्यति।

श्लोक 2

जटायो पश्य मामार्य ह्रियमाणामनाथवत्।
अनेन राक्षसेन्द्रेणाकरुणं पापकर्मणा॥

पदच्छेद

जटायो पश्य माम् आर्य ह्रियमाणाम् अनाथवत्।
अनेन राक्षसेन्द्रेण अकरुणं पापकर्मणा॥

अन्वय

(हे) आर्य जटायो! अनेन पापकर्मणा राक्षसेन्द्रेण अनाथवत् अकरुणं ह्रियमाणां मां पश्य।

हिन्दी अनुवाद

हे आर्य जटायु, इस पापकर्मी राक्षसराज के द्वारा किसी अनाथ जैसे बिना किसी दया के ह्रियमाण मुझे देखो।

  • ह्रियमाण – जिस का अपहरण हो रहा है।

भावार्थ

रावणः सीताम् अपहृत्य नयति। अतः सीता सहायतार्थं जटायोः आह्वानं करोति। सीता जटायुं वदति, “हे आर्य जटायो! मां पश्य। एषः पापी राक्षसराजः रावणं मां करुणम् अनाथवत् अपहरति।” इति।

श्लोक 3

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

पदच्छेद

तं शब्दम् अवसुप्तः तु जटायुः अथ शुश्रुवे।
निरीक्ष्य रावणं क्षिप्रं वैदेहीं च ददर्श सः॥

अन्वय

अथ अवसुप्तः जटायुः तु तं शब्दं शुश्रुवे। सः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।

हिन्दी अनुवाद

उसके बाद सोए हुए जटायु ने तो उस शब्द को सुना। (और) उस ने जल्दी से रावण को देख कर सीता को भी देखा।

भावार्थ

रावणः सीताम् अपहरति। सीता च सहायतार्थं जटायोः आह्वानं करोति। जटायुः तु वृक्षे अवसुप्तः अस्ति। सीतायाः ध्वनिं श्रुत्वा सः झटिति जागृतः भवति। सः रावणं पश्यति तथा शीघ्रमेव सीताम् अपि पश्यति।

श्लोक 4

ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्॥

पदच्छेद

ततः पर्वतशृङ्गाभः तीक्ष्णतुण्डः खगोत्तमः ।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्॥

अन्वय

ततः पर्वतशृङ्गाभः तीक्ष्णतुण्डः वनस्पतिगतः श्रीमान् खगोत्तम (जटायुः) शुभां गिरम् व्याजहार।

हिन्दी अनुवाद

उसके बाद किसी पहाड़ जैसा ऊंचा, नुकीली चोंच वाला, पेड़ पर बैठा हुआ, श्रीमान्, पक्षियों में श्रेष्ठ जटायु शुभ वाणी बोला

भावार्थ

जटायुः पर्वत इव उन्नतः अस्ति। तस्य चञ्चुः तीक्ष्णा वर्तते। जटायुः पक्षिषु श्रेष्ठः अस्ति। सः जटायुः सीतायाः ध्वनिं श्रुत्वा रावणं प्रति शुभवचनानि उक्तवान्।

श्लोक 5

निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्॥

अन्वय

(हे रावण, त्वं) नीचां मतिं परदाराभिमर्शनात् निवर्तय। धीरः तत् न समाचरेत् यत् अस्य परः विगर्हयेत्।

हिन्दी अनुवाद

हे रावण! तुम (अपनी) नीच मति को पराई स्त्री को स्पर्श करने से दूर करो। धैर्यवान् (पुरुष) को वह (काम) नहीं करना चाहिए जिसे उसका पराया निन्दित करे।

भावार्थ

परस्त्रीषु आसक्तिः सर्वथा निन्दनीया एव। रावणः सीतां नयति। अतः जटायुः रावणं तत् कर्म कर्तुं निवारयति। यस्य कर्मणः अन्ये जनाः निन्दां कुर्वन्ति तत् कर्म मनुष्यः न कुर्यात् इति जटायुः वदति।

Leave a Reply