प्रत्ययाः
अथ प्रत्ययाः।
प्रत्ययाः द्विविधाः –
१. तद्धिताः – प्रातिपदिकशब्देभ्यः परतः ये प्रत्ययाः भवन्ति ते तद्धितप्रत्ययाः।
२. कृदन्ताः – धातुभ्यः परतः ये प्रत्ययाः भवन्ति ते कृदन्तप्रत्ययाः।
————————
१. तद्धिताः
i. मतुप्
@ मतुप् = one who has
@ प्रयोगे मतुप्स्थाने केवलं मत् इति भवति।
उदाहरणानि
– बुद्धि + मतुप् = बुद्धिमत्
One who has brain.
– श्री + मतुप् = श्रीमत्
One who has welth.
– गति + मतुप् = गतिमत्
One who has speed.
– गो + मतुप् = गोमत्
One who has cow.
@ रूपाणि
– पुँलिङ्गे (गोमत्)
गोमान् गोमन्तौ गोमन्तः
गोमान्तम् गोमन्तौ गोमन्तः
गोमता गोमद्भ्याम् गोमद्भ्यिः
गोमते गोमद्भ्याम् गोमद्भ्यः
गोमतः गोमद्भ्याम् गोमद्भ्यः
गोमतः गोमतोः गोमताम्
गोमति गोमतोः गोमत्सु
हे गोमन् हे गोमन्तौ हे गोमन्तः
– स्त्रीलिङ्गे
गोमत् — > गोमती
गोमती शब्दस्य रूपाणि नदी शब्दवत् भवन्ति।
– नपुँसकलिङ्गे
गोमत् गोमती गोमन्ति
गोमत् गोमती गोमन्ति
अवशिष्टानि रूपाणि पुँलिङ्गवत् भवन्ति।
F परन्तु –
अआ + मतुप् = मतुप् —> वत्
उदाहरणानि
– गुण + मतुप् = गुणवत्
– बल + मतुप् = बलवत्
– विद्या + मतुप् = विद्यावत्
– दया + मतुप् = दयावत्
@ रूपाणि
– पुँलिङ्गे (भगवत्)
भगवान् भगवन्तौ भगवन्तः
भगवन्तम् भगवन्तौ भगवन्तः
अन्यं पूर्ववत् एव।
– स्त्रीलिङ्गे
भगवत् —> भगवती
भगवती शब्दस्य रूपाणि नदीवत् भवन्ति।
– नपुँसकलिङ्गे
भगवत् भगवती भगवन्ति
भगवत् भगवती भगवन्ति
अवशिष्टानि रूपाणि पुँलिङ्गवत् भवन्ति।
अभ्यासः
– नीतिमान् जनः एव सुखं प्राप्नोति।
– श्रीमान् जनः दानं कुर्यात्।
– बुद्धिमतां वरिष्ठं हनूमन्तं वन्दे।
– अहं गतिमत् यानं पश्यामि।
– भाग्यवान् जनः संस्कृतं पठति।
– श्रद्धावन्तः छात्राः ज्ञानं लभन्ते।
– ॐ नमो भगवते वासुदेवाय।
ii. इन् (णिनि)
@ इन्मतुपौ समानार्थिनौ।
@ अकारान्तात् परे प्रयुज्यते।
@ प्रयोगे पूर्व-अकारस्य लोपः स्यात्।
– बल + इन्
– बल् + अ + इन् ..अलोपः।
– बलिन्
@ रूपाणि
– पुँलिङ्गे (बलिन्)
बली बलिनौ बलिनः
बलिनम् बलिनौ बलिनः
बलिना बलिभ्याम् बलिभिः
बलिने बलिभ्याम् बलिभ्यः
बलिनः बलिभ्याम् बलिभ्यः
बलिनः बलिनोः बलिनाम्
बलिनि बलिनोः बलिसु
हे बलिन् हे बलिनौ हे बलिनः
– स्त्रीलिङ्गे
बलिन् —> बलिनी
बलिनी शब्दस्य रूपाणि नदीवत्।
– नपुँसकलिङ्गे
बलि बलिनी बलीनि
बलि बलिनी बलीनि
अवशिष्टानि रूपाणि पुँलिङ्गवत् भवन्ति।
अभ्यासः
– नमन्ति फलिनो वृक्षाः।
– मन्त्री वाक्यं वदति।
– विद्यार्थी अभ्यासं करोति।
– योगी नीरोगः भवति।
– अधिकारी कार्यं करोति।
– विजयी राजा वैरिणं मारयति।
iii. ठक्
@ ठक् = से सम्बन्धित (related with)
@ पूर्वशब्दे आदिस्वरस्य वृद्धिः भवति।
F अ —> आ
F इई ए —> ऐ
F उऊओ —> औ
@ प्रयोगे ठक्स्थाने इक इति भवति।
@ पूर्वशब्दस्य अन्तिमस्वरस्य लोपः भवति।
– नीति + ठक्
– नैति + ठक् …आदिवृद्धिः
– नैति + इक् …ठक्स्थाने इक
– नैत् + इक …अन्त्यलोपः
– नैतिक
@ रूपाणि
– पुँलिङ्गे (नैतिक)
नैतिक इति अकारान्तः शब्दः।
पुँलिङ्गे अस्य रूपाणि रामवत् भवन्ति।
यथा – नैतिकः नैतिकौ नैतिकाः
– स्त्रीलिङ्गे (नैतिकी) á
नैतिकी इति ईकारान्तः शब्दः।
अस्य रूपाणि नदीवद् भवन्ति।
यथा – नैतिकी नैतिक्यौ नैतिक्यः
– नपुंसकलिङ्गे (नैतिक)
फलशब्दवत् रूपाणि भवन्ति।
यथा – नैतिकम् नैतिके नैतिकानि
अभ्यासः
– भोजनम् अति अस्माके दैनिकं कार्यम्।
– रविवासरे साप्ताहिकः अवकाशः भवति।
– दशरथः धार्मिकः राजा आसीत्।
– स्वच्छता अस्माकं सामाजिकं दायित्वम्।
– महाभारतम् ऐतिहासिकं काव्यम्।
– नैराश्यम् इति मानसिकः रोगः अस्ति।
– सूर्यग्रहणम् इति वैज्ञानिकी घटना अस्ति।
iv. त्व
v. तल्
@ त्वतलौ समानार्थिनौ स्तः।
@ त्वतलौ भाववाचिनौ।
@ भाव = एक्झिस्टन्स।
@ त्वप्रत्ययः नपुंसके एव भवति। अपि च तल्प्रत्ययः सर्वदा स्त्रियामेव भवति।
उदाहरणानि –
प्रातिपदिकम् त्वान्तरूपम् तलन्तरूपम्
कटु कटुत्वम् कटुता
दुष्ट दुष्टत्वम् दुष्टता
शत्रु शत्रुत्वम् शत्रुता
गुरु गुरुत्वम् गुरुता
लघु लघुत्वम् लघुता
२. कृदन्ताः
i. तव्यत्
ii. अनीयर्
@ तव्यदनीयरौ समानार्थिनौ।
@ should be इति तयोः अर्थः।
@ प्रयोगे तव्यत्स्थाने तव्य, तथा च अनीयर्स्थाने अनीय इत्येव भवति।
@ धातौ गुणकार्यं भवति।
F इ —> ए
F उ —> ओ
@ कदाचित् तव्यति प्रत्यये धातुप्रत्यययोः मध्ये इडागमः भवति।
धातुः तव्यदन्तरूपम् अनीयरन्तरूपम्
लिख् लेखितव्य लेखनीय
जि जेतव्य जयनीय
कृ कर्तव्य करणीय
श्रु श्रोतव्य श्रवणीय
पठ् पठितव्य पठनीय
त्यज् त्यक्तव्य त्यजनीय
F रूपाणि
– पुँलिङ्गे रामवत्।
पठितव्यः पठितव्यौ पठितव्याः
– स्त्रीलिङ्गे मालावत्।
पठितव्या पठितव्ये पठितव्याः
– नपुंसकलिङ्गे फलवत्।
पठितव्यम् पठितव्ये पठितव्यानि
अभ्यासः
– छात्रैः पाठः पठितव्यः पठनीयः।
– सर्वैः स्वच्छता कर्तव्या करणीया।
– फलं खादितव्यम् खादनीयम्।
iii. शतृ
@ शतृशानचौ समानार्थिनौ = ing
@ केवलं परस्मैपदिधातुभ्यः भवति।
@ शतृप्रत्ययः धातोः अङ्गात् परे भवति।
@ प्रयोगे शतृस्थाने अत् भवति।
@ अ + अ । इति सवर्णदीर्घः न भवति।
यथा गम् + शतृ
गच्छ + अत् = गच्छत्
@ रूपाणि
– पुँलिङ्गे (बलिन्)
गच्छन् गच्छन्तौ गच्छन्तः
गच्छन्तम् गच्छन्तौ गच्छन्तः
गच्छता गच्छद्भ्याम् गच्छद्भिः
गच्छते गच्छद्भ्याम् गच्छद्भ्यः
गच्छतः गच्छद्भ्याम् गच्छद्भ्यः
गच्छतः गच्छतोः गच्छताम्
गच्छति गच्छतोः गच्छत्सु
हे गच्छन् हे गच्छन्तौ हे गच्छन्तः
– स्त्रीलिङ्गे (नदीवत्)
गच्छत् + ई = गच्छती
F गच्छ + न् + ती = गच्छन्ती
F येषाम् अङ्गम् अनाकारान्तं भवति तेषां शत्रन्तस्त्रीलिङ्गे नकारः न स्यात्।
करोति —> कुर्वती
ददाति —> ददती
अस्ति —> सती (being)
– नपुँसकलिङ्गे
गच्छत् गच्छती गच्छन्ति
गच्छत् गच्छती गच्छन्ति
अवशिष्टानि रूपाणि पुँलिङ्गवत् भवन्ति।
अभ्यासः १. विशेषणरूपम्।
– धावन् अश्वः। A running horse.
– अहं धावन्तम् अश्वं पश्यामि।
– धावता अश्वेन ग्रामः प्राप्तः।
– अहं धावते अश्वाय तृणं ददामि।
– अश्वी धावतः अश्वात् पतति।
– अहं धावतः अश्वस्य स्वामी अस्मि।
– अश्वी धावति अश्वे उपविशति।
अभ्यासः २. द्वयोः वाक्ययोः एकीभवनम्।
यथा छात्रः पठति। छात्रः लिखति।
– पठन् छात्रः लिखति।
– धावन्ती छात्रा पतति।
– धावत् विमानम् उड्डयते।
– गृहकार्यं कुर्वती गृहिणी गीतं श्रुणोति।
iv. शानच्
@ केवलम् आत्मनेपदिधातुभ्यः प्रयुज्यते।
@ धातोः अङ्गात् परे भवति।
@ प्रयोगे शानच्स्थाने मान इति भवति।
यथा वृध् + शानच्
वर्ध + मान = वर्धमान
@ रूपाणि
– पुँलिङ्गे रामवत्।
– स्त्रीलिङ्गे मालावत्।
– नपुंसकलिङ्गे फलवत्।
अभ्यासः
– मातरं वन्दमानः अहं पुण्यं प्रप्नोमि।
– भिक्षां याचमानः याचकः अटति।
– भजने मोदमाना मीरा नृत्यति।
– रणे विद्यमानः राजा युद्धं करोति।
– डयमानं विमानं नागपुरं गच्छति।
३. स्त्रीप्रत्ययौ
i. टाप्
@ प्रायशः अकारान्तशब्देभ्यः भवति।
@ प्रयोगे टाप्स्थाने आ भवति।
– बालः —> बाला
– अश्वः —> अश्वा
– अजः —> अजा
F अक + टाप् = इका
– गायकः —> गायिका
– नायकः —> नायिका
– शिक्षकः —> शिक्षिका
ii. ङीप्
@ प्रायशः अनकारान्तेभ्यः भवति।
@ प्रयोगे ङीप्स्थाने ई भवति।
– गुरुः —> गुर्वी
– बलिन् —> बलिनी
– गच्छत् —> गच्छन्ती
– महत् —> महती
F अकारान्तः सन् अपि ङीप् भवति।
– देवी, नदी,
– किशोरी, कुमारी, तरुणी, सुन्दरी,
– मृगी, सिंही,
– कुम्भकरी, चित्रकरी।
F अकारान्तः सन् अपि ठगन्तेभ्यः ङीप्।
– नैतिक —> नैतिकी
– धार्मिक —> धार्मिकी
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं

एकेन राजहंसेन या शोभा सरसो भवेत्। अन्योक्ति का हिन्दी स्पष्टीकरण
23/09/2019
शुचिपर्यावरणम् । श्लोक ४। कक्षा दशमी – शेमुषी । CBSE संस्कृतम्
04/06/2020