संस्कृतकथा – अन्नदानस्य महत्त्वम्
॥ अन्नदानस्य महत्त्वम् ॥
अथ एकदा महर्षिः अगस्त्यः एकस्मिन् वने अगच्छत्। तस्मिन् वने अटन् सः सर्वत्र पश्यति। परन्तु तत् वनं तु निर्मानुषम् आसीत्। तस्मात् कमपि द्रष्टुं न शक्नोति। तत्र न मनुष्याः नापि पशुपक्षिणः। परन्तु तत् वनं अतीव सुन्दरम् आसीत्। तत्र अनेके वृक्षाः, अनेकानि सुन्दराणि पुष्पाणि, मधुरानि फलानि च आसन्। तस्य मध्यभागे एकः सरोवरः आसीत्। तस्य सरोवरस्य समीपे एकः आश्रमः आसीत्। अगस्त्यः तस्मिन् आश्रमे प्राविशत्। किन्तु तस्मिन् आश्रमे अपि कोऽपि न आसीत्।
तदा सः जलार्थं सरोवरस्य समीपे अगच्छत्। तदा तेन एकं महद् आश्चर्यं दृष्ट्म्। तत्र सरोवरस्य तटे एकः शवः आसीत्। तदा सः अचिन्तयत् – किं नु इदं स्यात्? तदा मुहूर्तात् एकं स्वर्गीयविमानम् तत्र आगच्छत्। विमानात् एकः दिव्यः पुरुषः अवातरत्। सः तस्य शवस्य मांसम् अखादत्। मांसं खादित्वा सः हस्तप्रक्षालनं कर्तुं जलं पातुं च तस्मिन् सरोवरे प्राविशत्। हस्तप्रक्षालनं कृत्वा जलं च पीत्वा यदा सः विमानमारोढुं सिद्धः अभवत् तदैव अगस्त्यः अपृच्छत् – रे दिव्यपुरुष! त्वम् कः? तव स्वरूपं तु देवतुल्यं भाति। तर्हि अपि शवमांसं किमर्थं खादसि? कस्य मृतशरीरमस्ति तत्?
श्वेतः अवदत् – महर्षे! सविस्तारेण कथयिष्यामि। शृणोतु। अहमस्मि श्वेतः। विदर्भनरेश राजा सुदेवस्य पु़त्रः। यदा मम पिता महाराजसुदेवः पञ्चतत्वं गतः तदा अहं विदर्भस्य महाराजः अभवम्। ततः सावधानतया धर्मानुसारेण राज्यं कृतं मया प्रजा च न्यायानुसारेण पालिता। यथासमये वानप्रस्थं स्वीकृतं मया। तदा अस्मिन् एव वने आगत्य तपस्या अपि कृता। अन्ते मह्यम् उत्तमः ब्रह्मलोकः प्राप्तः। परन्तु ब्रह्मलोके क्षुधितः तृषितः च अभवम्।
तदा ब्रह्मदेवः अवदत् – त्वं पुण्यवान्, तपस्वी धार्मिकः च। परन्तु भूलोके सूक्ष्मोऽपि अन्नदानं न कृतं त्वया। न देवेभ्यः, न पितृभ्यः, न तु अतिथिभ्यः अन्नं दत्तं त्वया। तस्मात् ब्रह्मलोकेऽपि तव कृते अन्नं नास्ति।
श्वेतः अवदत् – परन्तु अधुना अहं किं खादामि?
ब्रह्मदेवः अवदत् – तर्हि अधुना प्रत्यहं स्वमांसानि एव भक्षय। एषः एव तव आहारः। तव शरीरस्य मांसस्य क्षयं न भविष्यति। यदा तस्मिन् वने महर्षिः अगस्त्यः आगमिष्यति, तदा तव मुक्तिः भविष्यति।
इति उक्त्वा सः श्वेतः अगस्त्यस्य चरणे अपतत्। अवदत् च – महर्षे! तव दर्शनेन अनुगृहीतोऽस्मि। अधुना मम एतस्मात् कष्टात् मुक्तिः भविष्यति।
तदा च महर्षेः अगस्त्यस्य कृपाप्रसादेन सः कष्टात् मुक्तः अभवत्। तस्य शरीरः गुप्तः अभवत्। तस्मात् अगस्त्यमहर्षिं प्रणम्य सः पुनः विमानम् आरुह्य स्वर्गं गतवान्।
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं

शुचिपर्यावरणम् । श्लोक ६ । अयि चल बन्धो । Class 10 संस्कृत CBSE
11/06/2020वक्रतुण्ड महाकाय संस्कृत श्लोक हिन्दी अर्थ।
26/06/2020