संस्कृत कथा

संस्कृतकथा – आत्मानं किं मन्यसे?

अहम् एकस्मिन् महाविद्यालये स्नातकस्तरे (B.A.) पठामि। परन्तु महाविद्यालये पठन् एकस्यां पाठशालायां शिक्षकरूपेण अर्धकालिकं (Part-time) कार्यम् अपि करोमि। तेन च पठनम् अपि भवति, धनार्जनम् अपि भवति। एवं मम दिनक्रमः प्रचलति स्म। महाविद्यालये प्रायशः मुक्तं वातावरणं भवति। अतः शनैः शनैः मया महाविद्यालगमनं स्थगितम्। अहं पूर्णतया पाठयालायां मग्नः। पाठशालायां छात्रैः सह मम मनः अधिकं रमते स्म। अहं महाविद्यालये केवलं परीक्षार्थम् एव गच्छामि स्म।

पाठशालायाम् अहं छात्रप्रियः शिक्षकः जातः। यदा अहं कक्षां प्रविशामि तदा सर्वे छात्राः उत्थाय – सुप्रभातम् आचार्य – इति मम अभिवादनं कुर्वन्ति। तदनन्तरम् अहं पाठं पाठयामि। छात्राः च मम तं पाठं ध्यानेन शृण्वन्ति। कदाचित् आवश्यकं चेत् लिखन्ति अपि। मम कक्षायां कोऽपि कोलाहलं न करोति। यदि कश्चन कोलाहलं करोति तर्हि तस्मै दण्डः अपि दीयते। कक्षायां पाठने एव अहम् अधिकाधिकं निमग्नः। तेन मम मनसि शिक्षकत्वस्य अहङ्कारः जातः। तेन च महाविद्यालये अहं स्वयमेव कश्चन छात्रः अस्मि इति अहं पूर्णतया विस्मृतवान्।

एकस्मिन् दिवसे मम मित्रस्य दूरवाणी आगता। अद्य आङ्ग्लभाषा इत्यस्य विषयस्य मौखिकी परीक्षा (Oral Examination) अस्ति इति सः दूरवाण्या उक्तवान्। तत् श्रुत्वा अहम् अनुभूतवान् यत् मया महाविद्यालयं प्रति गन्तव्यम् अस्ति। मया स्नातकतरीय – पाठ्यक्रमस्य अपि अभ्यासः करणीयः इति। अनन्तरम् अहं झटिति पाठशालायाः मुख्याध्यापक – महोदयात् मौखिकपरीक्षार्थम् अवकाशं स्वीकृतवान्। तदनन्तरं अहं शीघ्रगत्या महाविद्यालयं गतवान्। यस्मिन् कक्षे अस्माकं मौखिकपरीक्षा कल्पिता आसीत् तस्य कक्षस्य वातायनात् एव अहं दृष्टवान् यत् सर्वे छात्राः आगताः सन्ति। छात्रान् दृष्ट्वा मम शरीरस्थः शिक्षकः जागृतः। अहं विस्मृतवान् यत् अहम् अस्मिन् महाविद्यालये शिक्षकः नास्मि। अत्र तु अहमपि कश्चन छात्रः अस्मि। मम कृते तु सः कक्षः मम परीक्षगृहं नास्ति। सा तु कक्षा अस्ति यत्र सर्वे उद्दण्ड – छात्राः कोलाहलं कुर्वन्ति।  छात्राणां कोलाहलः श्रूयते अर्थात् कक्षायां शिक्षकः नास्ति। कक्षायां शिक्षकः नास्ति चेत् छात्राः कोलाहलं तु कुर्वन्ति एव। तत् स्वाभाविकम्। अस्तु। अहं कक्षायां प्रविशामि। प्रायशः शिक्षकं दृष्ट्वा छात्राः तूष्णीम् उपविशन्ति।

तावत् प्रविशामि – इति विचिन्त्य अहं शनैः शनैः मुखम् उग्रं कृत्वा प्रवेशं कृतवान्। परन्तु मयि प्रविष्टे सति अपि छात्राणां कोलाहलः तु निर्विघ्नं प्रचलति। मम उग्रं मुखं दीनं जातम्।

रे मित्र। कथम् अस्ति? – तेषु कश्चन उक्तवान् – भवान् तु शिक्षकः। कस्यां पाठशालायां पाठयति भवान्?

भो भोः शृण्वन्तु सर्वे। – अन्य कश्चन माम् उपहसन् चीत्करोत् – एषः शिक्षकमहोदयः। शान्तम्। शान्तम्। शू ऽ ऽ ऽ

सर्वे छात्राः तत् श्रुत्वा उच्चैः हसितवन्तः। कक्षायां हास्यस्य स्फोटः जातः।

मम शिक्षकत्वं विलुप्तम्। तथापि किञ्चित् स्मितं कृत्वा मम मित्राणां उपहासं परिहरन् उपवेष्टुं स्थानं कुत्र अस्ति वा इति इतस्ततः दृष्टवान्। कक्षायां बहवः छात्राः आसन्। तथापि प्रायशः महाविद्यालयेषु छात्राः शिक्षकभयात् प्रथमे आसन्दे उपवेष्टुं न इच्छन्ति। सर्वे छात्राः पृष्ठतः एव भित्तिकासमीपं उपविष्टाः आसन्। मम पुरतः एव एकः आसन्दः रिक्तः आसीत्। अहं तु स्वयं शिक्षकः। अतः मम शिक्षकभयं नासीत्। अतः अहं प्रथमे आसन्दे उपविष्टः। मम पृष्ठतः सर्वेषु आसन्देषु छात्राः आसन्। यावत् अस्माकं प्राध्यापकः न आगच्छति। तावत् तेषां कोलाहलः चलिष्यति एव इति विचन्त्य अहं छात्राणां कोलाहलात् मनः परिवर्तितुं प्रयत्नं कर्तुम् आरब्धवान्।

अहं साम्प्रतं महाविद्यालये अस्मि। पाठशालातः अवकाशं स्वीकृत्य अत्र आगतवान् अस्मि। न जाने किं प्रचलति मम पाठशालायाम्। मम स्थाने अन्यः कः शिक्षकः गतः तत्र? – एवं महाविद्यालये सति अपि पाठशालायाः एव विचाराः मम मनसि आगच्छन्ति स्म।

सहसा  एव सर्वेषां छात्राणां कोलहलः शान्तः जातः। सर्वे च स्वस्थानेषु तूष्णीम् उपविष्टाः। यतः प्राध्यापकमहोदयः कक्षायाः द्वारे आगतः आसीत्। तस्य हस्ते मौखिकपरीक्षायाः कृते उत्तरपत्रिकाः आसन्। नासिकायां (नेत्रयोः न) पुरातनम् उपनेत्रं स्थापितम् आसीत्। 
प्राध्यापकमहोदयः क्रुद्धनेत्राभ्यां कक्षां पश्यन् कठोरस्वरेण अक्रन्दत् – किमर्थं कोलाहलः? 
वस्तुतः तस्य क्रन्दनं व्यर्थम् आसीत्। यतः तस्य उपस्थितिं ज्ञात्वा एव छात्राः तूष्णीं स्थिताः। पुनः तस्य क्रन्दनेन शान्ते कक्षे ध्वनिप्रदूषणं भवति स्म। वस्तुतः छात्राः शान्ताः आसन्। तथापि सः द्वारे स्थित्वा एव चीत्करोत् – भवन्तः बालकाः वा? अधुना सर्वे ज्येष्ठाः महविद्यालये पठन्ति। तथापि अनुशासनं नास्ति।
अहं तत् सर्वं कौतुकेन शृण्वन् आसम्। अहं जानामि यत् यद्यपि सः क्रुद्धः दृश्यते तथापि तस्य मनःस्थितिः सामान्या वर्तते। यतः एतत् तु शिक्षकाणां दैनिकं कार्यम्। किमर्थं दैनिकम्? प्रतिवर्गं एतदेव करणीयं भवति। शिक्षकाः जानन्ति यत् छात्राः कोलाहलं कुर्वन्ति एव। तथापि एतत् सर्वं करणीयम् एव भवति। अहमपि प्रतिदिनं करोमि एव। मम कक्षायां तु मम आगमनात् पूर्वं वर्गनायकः कोलाहलिनां नामानि फलके लिखति। येषां नामानि फलके भवन्ति तान् तर्जयित्वा ताडयित्वा वा मम कक्षा प्रायशः आरभ्यते। प्राध्यापकमहोदयः साम्प्रतम् अपि द्वारे एव आसीत्। प्राध्यापकस्य तर्जनकौशलं दृष्ट्वा अहं किञ्चित् स्मितहास्यं कृतवान्। प्राध्यापकः मम स्मितं दृष्टवान्।
तदा प्राध्यापकमहोदयः कक्षायां प्रवेशं कृतवान्। तं प्रविशन्तं दृष्ट्वा सर्वे छात्राः उत्थिताः – नमस्ते आर्य। इति सर्वे सस्वरम् उक्तवन्तः। परन्तु अहं तु प्राध्यापकमहोदयः माम् एव क्रोधेन पश्यन् शनैः शनैः मम समीपम् उपसर्पन् अवदन् – कीयान् उद्दण्डो छात्रः एषः। असंस्कृतः असभ्यश्च।
सहसा एव अहम् अनुभूतवान् यत् एतानि विशेषणपदानि मम कृते एव समर्पितानि सन्ति। अहं नेत्राभ्याम् इतस्ततः दृष्टवान्। मम पृष्ठतः कक्षायां सर्वे छात्राः प्राध्यापकस्य सन्मानार्थम् उत्थिताः आसन्। अहमेव प्रथमे आसन्दे उपविष्टः शुष्कदृष्ट्या प्राध्यापकं पश्यन् आसम्। तदा मम मनः प्रकाशितं जातम् – हे राम! अहम् अत्र न शिक्षकः। अहं तु अत्र साधारणः छात्रः। तत्रापि प्रायशः अहं महाविद्यालये उपस्थितः न भवामि। तेन मयापि उत्थाय शिक्षकस्य सन्मानः करणीयः भवति। इति चिन्तयित्वा अहं शीघ्रगत्या उत्थाय – नमस्ते आर्य! अहं प्रणमामि। क्षम्यताम्।
हाः, साम्प्रतं छात्राः उद्दण्डाः जाताः इति उक्त्वा तेन हस्तेन एव सर्वेषां कृते उपेष्टुं सङ्केतः कृतः। तस्य सङ्केतं दृष्ट्वा सर्वे छात्राः उपविष्टाः। सर्वान् उपविशन्तः दृष्ट्वा अहमपि उपविष्टः। मम मनसि खेदस्य अंशः जागृतः। तथापि अहं तूष्णीं स्थितः। दोषः तु मम एव आसीत्। मया अस्मिन् महाविद्यालये छात्रवत् व्यवहारः करणीयः।
मां तत्रैव उपविष्टं त्यक्त्वा प्राध्यापकमहोदयः उत्पीठिकायाः समीपं गत्वा वक्तुम् आरभत – छात्राः, भवन्तः सर्वे जानन्ति यत् अद्य आङ्ग्लभाषा इत्यस्मिन् विषये भवतां सर्वेषां मौखिकी परीक्षा भविष्यति। तस्याः च प्रथमे सत्रे अहम् सर्वप्रथमम् उत्तरपत्रिकाणां वितरणं करिष्यामि। अनन्तरं स्वस्थानम् आगत्य मुखेन प्रश्नस्य उच्चारणं करिष्यामि। मम प्रश्नं श्रुत्वा उत्तराणि लेखनीयानि। स्पष्टं वा?
आम् इति सर्वे छात्राः स्वीकृतवन्तः। तदनन्तरं प्राध्यापकमहोदयः उत्तरपत्रिकायाः एकैकशः वितरणम् आरब्धवान्। अहं प्रथमे आसन्दे उपविष्टः आसम्। अतः सर्वप्रथमं मम समीपम् आगत्य शुष्कभावनया सः मम पुरतः उत्तरपत्रिकां क्षिप्तवान्। एवं पत्रिकां वितरन् सः पृष्ठतः गतः। शनैः शनैः अन्तिमछात्रपर्यन्तं गतवान्।
तदा एकः छात्रः कक्षायाः द्वारे आगत्य स्थितः। तेन विलम्बः कृतः अस्ति। अतः सः किञ्चित् भयभीतः आसीत्। सः च उच्चैः श्वसनं कुर्वन् आसीत्। भयभीतः सः शनैः शनैः न्यगदत् – आचार्य, प्रविशानि किम्?
मम विद्यालये अपि विलम्बिनः छात्राः एवमेव पृच्छन्ति स्म। तस्य तत् वचनं श्रुत्वा सहसैव मम मुखात् उच्चैः शब्दाः निस्सृताः – आम्, प्रविशतु। किमर्थं विलम्बः?
तत् मम वाक्यं सर्वैः श्रुतम्। प्राध्यापकमहोदयेन अपि। प्राध्यापकस्य मुखं दृष्ट्वा सर्वे छात्राः भयभीताः। 
रे त्वम् आत्मानं किं मन्यसे? इति उच्चैः गर्जन् प्राध्यापकः मम समीपम् आगत्य वदति – त्वं तु कदापि महाविद्यालये न आगच्छसि। केवलं परीक्षासमये एव आत्मानं भद्रमुखं दर्शयसि। तत्रापि उद्दण्डतां करोषि। किं त्वं प्राध्यापकः शिक्षकः वा?
आम् अहं शिक्षकः अस्मि। अतः सहसैव ……. इति अहम् आत्मरक्षार्थं वक्तुं प्रयत्नं कृतवान्। परन्तु मम – अहं शिक्षकः – इति वाक्येन तु प्राध्यापकमहोदयस्य क्रोधस्य स्फोटः जातः। 
विपरीतम् उत्तरं वदसि। दुष्ट, धृष्टतां करोषि। प्राध्यापकस्य अपमानं करोषि। अहं तुभ्यं परीक्षायाम् एकं बृहदाकारं शून्यम् एव ददामि इति प्राध्यापकः कम्पायमानः जातः। अग्रे च सः पृच्छति – किं रे, किं नाम तव?
म…. म…. मम। मम न… ना….. नाम। मम …. नाम ….. – अहं तु प्राध्यापकस्य क्रुद्धावतारं दृष्टवा भयभीतः। भयकारणात् मुखात् शब्दाः न निर्गच्छन्ति स्म।
अलम् अलम्। तूष्णीं तिष्ठ। शेक्सपीयर् उक्तवान् नाम्नि किम् अस्ति? भवतु किमपि नाम। तव व्यवहारः एव तव परिचयं कारयति।
म … म … महोदय। किञ्चित् शृणोतु –  इति अहं प्रयतमानः आसम्।
अलम्। तूष्णीं तिष्ठ। उपविश। मम समीपं समयो नास्ति। छात्राः अधुना इयम् आरभ्यते परीक्षा – इति उक्त्वा प्राध्यापकमहोदयः परीक्षायाः आरम्भं कृतवान्।
संस्कृत कथा
संस्कृत कथा

Leave a Reply