संस्कृत कथा

संस्कृतकथा – पुनरहं दण्डितः।

चलच्चित्रं दृष्ट्वा कथाश्रवणार्थम् –

॥ संस्कृतकथा – पुनरहं दण्डितः ॥

रेलयानेन प्रवासः कस्मै न रोचते। बाल्ये तु अहं रेलयानं दृष्ट्वा एव हर्षितः भवामि स्म। मयि रुष्टे सति मम माता अपि – वयं रेलयानेन मातुलगृहं गमिष्यामः इति उक्त्वा मां सन्तोषयति स्म। परन्तु हा धिक् दैवम्। गताः दिवसाः ते। अधुना अहं पञ्चविंशतिवर्षीयः तरुणः। प्रतिदिनम् आजीविकार्थं रेलयानेनैव गमनागमनं करणीयं भवति। प्रतिदिनं जनानां सम्मर्दः अस्वच्छता चौराः भिक्षुकाः च एतत्सर्वं दृष्ट्वा सम्प्रति अहं रेलप्रवासे अनासक्तः।
एकदा मम विलम्बः जातः। अहं धावित्वा धावित्वा रेलस्थानकं प्रति प्राप्तः। तत्र गत्वा मया दृष्टं यत् रेलयानं कर्णकटुं ध्वनिं कृत्वा रेलस्थानकात् प्रस्थानं करोति।
हा हन्तः। अधुना किं करणीयम्। चिटिकां स्वीकर्तुं समयः नास्ति। यानं गच्छति चेत् किं भवेत्। अहं चिटिकां विना एव यानं प्रति धावितः। तस्मिन् धवति रेलयाने एव येन केन प्रकारेण मया मम शरीरं क्षिप्तम्। अन्ततः अहं रेलयाने अस्मि इति विचन्त्य अहं तूष्णीम् उपविष्टः। अनन्तरम् इतस्ततः दृष्ट्वा मया ज्ञातं यत् अहं वातानुकूलिते कक्षे (A.C.) अस्मि इति।
वातानुकूलिते कक्षे।
प्रतिदिनं सामान्ये कक्षे (General) उपविश्य चिटिकया सह प्रवासं करोमि। परं तत्र तु प्रायः चिटिकानिरीक्षकः (T.C.) न आगच्छति। परन्तु अद्य वातानुकूलिते कक्षे किं भविष्यति। अद्य तु अवश्यमेव अहं कारागृहे भविष्यामि। अत्र तु अवश्यमेव परीक्षकः स्यात्। अहं भयभीतः।
जनाः इतस्ततः गच्छन्ति स्म। प्रत्येकं जनं दृष्ट्वा – एषः परीक्षकः वा इति विचिन्त्य मम हृद्गतिः वर्धते स्म। वातानुकूलिते कक्षे प्रायः धनिकाः एव प्रवासं कुर्वन्ति। अहं तु धनशत्रुः। तस्मिन् वातानुकूलिते कक्षे राजहंसेषु बक इव साशंकमनसा अहं मम विषये चिन्तयन् स्थितः।
मम मनसि तु केवलं एका एव चिन्ता – चिटिकानिरीक्षकः कुत्र स्यात्। अहं प्रत्येकस्मिन् जने निरीक्षकम् एव पश्यामि स्म। यथा कंसः सर्वत्र अष्टमम् एव देवकीपुत्रं पश्यति स्म तथा मत्कृते सर्वत्र चिटिकापरीक्षकः एव आसीत्। अन्ततः सः आगतः। कृष्णवर्णीयः। तुन्दिलतनुः। बृहदुपनेत्रधारी। शशक इव ओष्ठात् बहिः आगतं दन्तद्वयम्। अश्व इव उच्चैः चीत्कारं कृत्वा – चिटिकां दर्शयतु भोः ! इति प्रश्नं पृच्छन् एकैकशः प्रत्येकं जनं त्रासयन् शनैः शनैः सर्प इव अग्रे उपसर्पति स्म।
अधुना किं करवाणि? कुत्र पलायनं कर्तुं शक्यते वा? किं धावतः रेलयानात् बहिः आत्मानं क्षिपानि वा? किं स्वच्छतागृहे आश्रयः स्वीकरणीयः वा? किं तस्मै एव परीक्षकाय किञ्चित् धनं दत्त्वा ॰ ॰ ॰ ॰ ॰ ॰ इत्यादयः विचाराः मनसि आगच्छन्ति स्म।
महात्मा गान्धी।
आम्। महात्मा गान्धी अस्माकं राष्ट्रपिता। तस्य मार्गेण एव गन्तव्यम् अधुना। एवं विचिन्त्य अहं तस्य प्रतीक्षां कुर्वन् स्थितः। अहं सत्यमार्गेण गच्छामि। तस्मै अहं सर्वं सत्यं वक्ष्यामि।
चिटिकानिरीक्षकः – भोः चिटिकां दर्शयतु।
अहम् – महोदय, विलम्बकारणात् अहं चिटिकां क्रेतुं न शक्तः। अतः अहं चिटिकया विना एव प्रवासं करोमि।
निरीक्षकः – (उच्चैः) भवादृशाः जनाः एव भारतस्य नाशाय सन्ति। किमपि असत्यं कारणम् उक्त्वा रेलयाने चिटिकां विना एव प्रवासं कुर्वन्ति। किम् रेलयानं भवतः पितुः सम्पत्तिः?
अहम् – न भोः। अहं सत्यं वदामि। अहं कदापि चिटिकां विना प्रवासं न करोमि। अद्य एव विलम्बः जातः अतः चिटिकां क्रीणातुं न शक्तवान्।
सः – तत् किमपि भवतु। भवान् दण्डितः भविष्यति एव। १००० रुप्यकाणि ददातु।
अहम् – किम्? १००० रुप्यकाणि। मत्समीपं तावत् धनं नास्ति।
सः – नो चेत् कारागृहं प्रति चलतु। न्यूनान्न्यूनं वर्षत्रयं यावत् भवतः कारागृहे निवासः निश्चितः।
अहम् – न भोः। मत्समीपं केवलं ७०० रुप्यकाणि एव सन्ति।
सः – ददातु तर्हि।
अहम् – स्वीकरोतु।
सः – धन्यवादः। (इति चिटिकानिरीक्षकः निर्गच्छति।)
हा दैव। सप्तशतरुप्यकाणि। धनं तु नष्टम्। अधुना किं करवाणि? गृहं गत्वा सर्वे मम उपहासं करिष्यन्ति। कदापि अहं चिटिकां विना रेलयानप्रवासं न करोमि। अद्य एव अनिवार्यकारणेन कृतः। अन्ये जनाः सर्वदा चिटिकां विनैव प्रवासं कुर्वन्ति। तान् जनान् तु कोऽपि चिटिकार्थं न पृच्छति। केवलं मादृशाः एव पापभीरवः जनाः सर्वदा पीड्यन्ते।
चिटिकां दर्शयतु भोः। – एकः ध्वनिः मम कर्णं अतुदत्।
किम्? – इति अहम् आश्चर्यचकितः।
मनुष्यः – महोदय, चिटिकां दर्शयतु।
अहम् – सद्य एव एकः चिटिकानिरीक्षकः आगत्य मां चिटिकां दर्शयितुम् अपृच्छत्। पुनः भवान् कः मां चिटिकां पृच्छति?
मनुष्यः – अहं चिटिकानिरीक्षकः। एतत् पश्यतु मम परिचयपत्रम्। दर्शयतु कृपया चिटिकाम्। मत्समीपं समयः नास्ति।
अहम् – मम समीपं चिटिका नास्ति। परन्तु सद्य एव अहं एकेन चिटिकानिरीक्षकेन दण्डितः।
चिटिकापरीक्षकः – किमर्थं भवान् दण्डितः?
अहम् – मम समीपं चिटिका नास्ति अतः सः चिटिकानिरीक्षकः मत्तः ७०० रुप्यकाणि स्वीकृत्य गतवान्।
परीक्षकः – बहूत्तमम्। बहूत्तमम्। भवान् कृत्रचित् गत्वा कथालेखकः भवतु। बहूत्तमां कथां रचयति भवान्।
अहम् – न महोदय। अहं सत्यम् उक्तवान्। सत्यमेव एकः चिटिकानिरीक्षकः मां दण्डयित्वा गतः। पुनः अहं भवते धनं दातुं न शक्नोमि।
सः – यदि एवम् अस्ति तर्हि दण्डस्य प्राप्तिपत्रं (Receipt) दर्शयतु।
अहम् – किम्। प्राप्तिपत्रम्? सः प्राप्तिपत्रं न दत्तवान्। केवलं ७०० रुप्यकाणि स्वीकृत्य गतवान्।
सः – भवान् चतुरः। भवान् शीघ्रकविः। परन्तु मत्पुरतः भवतः चातुर्यं न चलिष्यति। धूर्त मनुष्य। १००० रुप्यकाणि दण्डार्थं देहि अन्यथा कारागृहे निवासः निश्चितः।
अहम् – न न भोः। अहं तु कदापि चिटिकां विना प्रवासं न करोमि। अद्य एव विलम्बकारणात् अहं रेलयाने प्रविष्टः।
सः – तानि कारणानि मा वदतु। भवतः समीपं चिटिका नास्ति। अतः दण्डार्थं धनं दातव्यम् अथवा कारागृहे निवासः। भवान् एव वदतु भवते किं प्रियम् इति।
अहम् – अहं पूर्वम् एव दण्डार्थं धनं दत्तवान्। तर्हि पुनः किमर्थम्? नैव ददामि।
सः – तर्हि कारागृहं प्रति चलतु। यदि भवता धनं दत्तं तर्हि तस्य प्राप्तिपत्रं किमर्थं न स्वीकृतम्।
अहम् – आः। प्राप्तिपत्रं न स्वीकृतम्। एषः तु महादोषः। परन्तु अधुना किं कर्तुं शक्यते। मत्समीपं तु अधिकं धनम् अपि नास्ति। यावत् धनम् आसीत् तत् सर्वम् दत्तम्।
सः – मूर्ख, तत्किमपि न वक्तव्यम्। चिटिकां दर्शयतु अथवा दण्डं स्वीकुरु।
अहम् – चिटिका तु नास्ति एव।
सः – तर्हि धनं ददासि वा कारागृहम् इच्छसि?
मत्समीपं धनं तु नासीदेव। अतः अहं कारागृहे नीतः। कारागृहे च मत्कुणाः दुर्गन्धः अन्धःकारः इत्यादयः सर्वे मम स्वागतार्थं सिद्धाः आसन्। कारागृहे मम भाग्यविषये चिन्तनं कुर्वन् अहं स्थितः। तत्र च मम मनसि – सर्वं खल्विदं ब्रह्म। ब्रह्म सत्यं जगन्मिथ्या। सन्तुष्टः सततं योगी। समः शत्रौ च मित्रे च तथा मानापमानयोः। एतादृशाः विचाराः मनःशान्त्यर्थं प्रयतमानाः आसन्। एतैः शुभविचारैः एव अहं तस्य कारागृहस्य दुर्गन्धं अन्धःकारं मत्कुणान् इत्यादीन् मम यजमानान् जित्वा निद्रावशं गतः।
    रात्रौ कदाचित् कारागृहस्य द्वारम् उद्घाटितम्। एकः जनः कारागृहे क्षिप्तः। अहं तं जनं दृष्ट्वा आश्चर्यचकितः। सः प्रथमः चिटिकापरीक्षकः आसीत्।
अहम् – अयि भोः। भवान् तु चिटिका परीक्षकः अस्ति। भवान् अत्र कारागृहे किमर्थम् अस्ति?
सः – अहं निरीक्षकः नास्मि। अहं तु निर्धनः। प्रतिदिनं भोजनस्य चिन्ता भवति। अतः अहं प्रतिदिनं निरीक्षकस्य अभिनयं कृत्वा जनेभ्यः धनं स्वीकरोमि।
अहम् – परन्तु भवान् तु साम्प्रतं कारागृहे अस्ति।
सः – अरे एतत् तु उत्तमम् एव। अधुना भोजनस्य चिन्ता नास्ति। अत्रैव भोजनं दीयते। अस्वास्थ्यं भवति चेत् रुग्णालये अपि नीयते। वर्षा-ऋतौ तु एतत् एव मम गृहम्।
अहम् – हे राम।
सः – मित्र, मम एका एव चिन्ता। यदि कारागृहात् मुक्तिः भवेत् तर्हि बहिः गत्वा पुनः किं करणीयम्?

Leave a Reply