संस्कृतदिवसः संस्कृतसप्ताहः च। संस्कृतनिबन्धः
श्रावणी पूर्णिमा अर्थात् रक्षाबन्धनम्। परन्तु एष एव दिवसः संस्कृतदिवसः अस्ति इति के जानन्ति? न्यूनाः एव। अयं दिवसः ऋषीणां पूजायाः तथा समर्पणस्य दिवसः मन्यते। दिवसेऽस्मिन् गुरुकुलेषु विद्यार्थिनः यज्ञोपवीतं धारयन्ति स्म। अयं संस्कारः उपनयनसंस्कारः इति नाम्ना ज्ञायते। ऋषयः एव संस्कृतसाहित्यस्य मूलम्। अतः एव श्रावणीपूर्णिमां ऋषिपर्व तथा संस्कृतदिवसः इति मन्यते।
प्रयोजनम्
अस्मिन् एव दिवसे प्राचीनभारते विद्यायाः अभ्यासस्य आरम्भः भवति स्म। अर्थात् छात्राः अध्ययनस्य प्रारम्भं कुर्वन्ति स्म। वर्तमानकालेऽपि गुरुकुलेषु श्रावणपौर्णिमातः एव वेदाध्ययनस्य आरम्भः भवति।
सर्वकारीयः आदेशः
अतः ईसवीये १९६९ तमे वर्षे भारतसर्वकारेण केन्द्रीयस्तरे तथा प्रान्तस्तरे संस्कृतदिवसस्य आयोजनं भवतु इति आदेशः कृतः। ततः आरभ्य प्रतिवर्षं सम्पूर्णे भारते श्रावणपौर्णिमादिवसे संस्कृतदिवसस्य आयोजनं भवति।
अस्मिन् अवसरे सर्वत्र संस्कृतेन कविसम्मेलनानि, कवीनां गोष्ठी, छात्राणां भाषणानि तथा श्लोकोच्चारणप्रतियोगिताः भवन्ति। सर्वत्र संस्कृतप्रेमिषु उत्साहस्य वातावरणं भवति।
साम्प्रतं न केवलं भारते, अपितु विदेशेषु अपि संस्कृतोत्सवस्य उत्साहः भवति।
संस्कृतसप्ताहः
श्रावणपूर्णिमातः पूर्ववर्ति दिनत्रयं तथा उत्तरवर्ति दिनत्रयं तथा मध्यवर्तिनी श्रावणपूर्णिमा एवम् आहत्य सप्त दिवसाः संस्कृतसप्ताहः इति मन्यते। यथा सितम्बरमासे हिन्दीपखवाड़ा भवति तथैव अयं संस्कृतसप्ताहः बहूत्साहेन मन्यते। सर्वत्र संस्कृतप्रेमिजनेषु उत्साहः दृष्यते। संस्कृतविषये विविधाः कार्यक्रमाः, परिषदः, स्पर्धाः च भवन्ति।
ज्ञान बांटने से बढ़ता है।
Related
पिछला
देवदत्तस्य ज्वालामुखी
आपको यह भी पसंद आ सकता हैं

शुचिपर्यावरणम्। श्लोक २। कज्जलमलिनं धूमं मुञ्चति। CBSE कक्षा दशमी।
26/05/2020
शुचिपर्यावरणम् । श्लोक ५। हरिततरूणां ललितलतानाम्। कक्षा दशमी – शेमुषी । CBSE संस्कृतम्
07/06/2020