स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध् वंसनं
स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं
पदच्छेद
स्नानं नाम मनःप्रसादजननं दुःस्वप्नविध्वंसनं
शौचस्यायतनं मलापहरणं संवर्धनं तेजसः।
रूपद्योतकरं रिपुप्रमथनं कामाग्निसंदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दशैते गुणाः।।
- चाणक्यराजनीति
- वैद्यकीय सुभाषित साहित्य। 8.12
पदच्छेद
स्नानं नाम मनःप्रसाद-जननं दुःस्वप्न-विध्वंसनं
शौचस्य आयतनं मल-अपहरणं संवर्धनं तेजसः।
रूप-द्योतकरं रिपु-प्रमथनं काम-अग्नि-संदीपनं
नारीणां च मनोहरं श्रमहरं स्नाने दश एते गुणाः।।
अन्वय
स्नानं नाम मनःप्रसादजननं, दुःस्वप्नविध्वंसनं, शौचस्य आयतनं, मलापहरणं, तेजसः संवर्धनं, रूपद्योतकरं, रिपुप्रमथनं, कामाग्निसंदीपनं, नारीणां च मनोहरं, श्रमहरं (च भवति)। एते दश गुणाः स्नाने (भवन्ति)।
व्याकरण
मनःप्रसादजननम्
- मनसः प्रसादः – मनःप्रसादः। षष्ठी तत्पुरुष समास।
- मनःप्रसादस्य जननम्। षष्ठी तत्पुरुष।
दुःस्वप्नविध्वंसनम्
- दुःस्वप्नस्य विध्वंसनम्। षष्ठी तत्पुरुष समास।
मलापहरणम्
- मलस्य अपहरणम्। षष्ठी तत्पुरुष समास।
2