श्लोक

१०.०९. सूक्तयः। ०७. य इच्छत्यात्मनः श्रेयः।

९. सूक्तयः।

कक्षा दशमी। शेमुषी। CBSE संस्कृतम्।
सप्तमः श्लोकः 
य इच्छत्यात्मनः श्रेयः प्रभूतानि सुखानि च।
न कुर्यादहितं कर्म स परेभ्यः कदापि च॥७॥
शब्दार्थः –
  • यः – जो
  • इच्छति – वाञ्छति। चाहता है।
  • आत्मनः – स्वकीयः। स्वस्य। खुद का
  • श्रेयः – कल्याणम्। भला
  • प्रभूतानि – बहुत सारे
  • सुखानि – सुख
  • च – और
  • न – नहीं
  • कुर्यात् – करणीयम्। करना चाहिए
  • अहितम् – बुरा
  • कर्म – काम
  • सः – वह (यहां उसने)
  • परेभ्यः – अन्येभ्यः। दूसरे लोगों के लिए
  • कदापि – कभी भी
  • च – और

अन्वयः – 

यः (मनुष्यः) आत्मनः श्रेयः प्रभूतानि च सुखानि इच्छति, सः च कदापि परेभ्यः अहितं कर्म न कुर्यात्।
हिन्द्यर्थः – 
जो मनुष्य खुद का भला और बहुत सारा सुख चाहता है उसे कभी भी दूसरों के लिए बुरा काम करना नहीं चाहिए।
जैसी करनी वैसी भरनी। यह न्याय तो सभी को पता है। इसीलिए इस श्लोक के माध्यम से कवि कहते हैं कि जो अपना भला और अपने लिए सुख चाहता है उसे दूसरों के साथ भी बुरा बरताव नहीं करना चाहिए। अर्थात् हम यदि दूसरों के साथ अच्छा और भलाई का व्यवहार करेगे तो ही हमें बदले में अच्छी बाते मिलेगी।
भावार्थः – 
मनुष्यः अन्येन जनेन सह यथा व्यवहारं करोति तथैव तस्य परिणामः भवति। अतः यः मनुष्यः स्वस्य कल्याणं बहूनि सुखानि च इच्छति तेन मनुष्येण अन्यैः जनैः सह अहितं कर्म न करणीयम्। 
व्याकरणम्
  • य इच्छति – यः + इच्छति। विसर्गलोपः।
  • इच्छत्यात्मनः – इच्छति + आत्मनः। यण् सन्धिः।
  • आत्मनः – आत्मन् + षष्ठी विभक्तिः।
  • कुर्यादहितम् – कुर्यात् + अहितम्। जश्त्वम्।
  • स परेभ्यः – सः + परेभ्यः। विसर्गलोपः।
  • कदापि – कदा + अपि। दीर्घः। 

Leave a Reply