सौहार्दं प्रकृतेः शोभा – प्रश्नोत्तर। NCERT Solutions Class 10 – Sauhardam PrakruteH Shobha
इस लेख में सौहार्दं प्रकृतेः शोभा (Sauhardam PrakruteH Shobha) इस पाठ के सभी प्रश्नों के उत्तर हैं। और साथ में प्रश्नों के उत्तरों को वीडिओ के माध्यम से भी समझाने का प्रयत्न किया है।
Solution of question 1. एकपदेन उत्तरं लिखत।
(क) वनराजः कैः दुरवस्थां प्राप्तः?
– तुच्छजीवैः।
(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
– काकः।
(ग) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
– आदर्शच्छात्रः।
(घ) कः आत्मानं बलशालिनं, विशालकयं, पराक्रमिणं च कथयति?
– गजः।
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
– वराकान्।
Solution of question 2. अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत।
(क) नि:संशयं कः कृतान्तः मन्यते?
- यः राजा वित्रस्तान् परैः पीड्यमानान् सदा न रक्षति सः निःसंशयं पार्थिवरूपेण कृतान्तः मन्यते।
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
- बकः शीतले जले बहुकालपर्यन्तं अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा सर्वेषां वन्यजन्तूनां रक्षायाः उपायान् चिन्तयिष्यति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
- अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं इति सस्नेहं वदति – भोः भोः प्राणिनः। यूयं सर्वे एव मे सन्ततयः। कथं मिथः कलहं कुरुथ। वस्तुतः सर्वे वन्यजीविनः अन्योन्याश्रिताः।
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवेत?
- यदि राजा सम्यक् न भवति तदा यथा अकर्णधारा नौः जलधौ तथा प्रजा विप्लवेत।
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
- मयूरः पिच्छानुद्धाट्य नृत्यमुद्रायां स्थितः भवति?
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
- अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवति।
(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
- अस्मिन् नाटके द्वादश पात्राणि सन्ति।
Solution of question 3. रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत।
(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
- सिंहः वानराभ्यां कस्याम् असमर्थः एवासीत्?
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
- गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?
(ग) वानरः आत्मानं वनराजपदाय योग्यं मन्यते।
- वानरः आत्मानं कस्मै योग्यं मन्यते?
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
- मयूरस्य नृत्यं कस्याः आराधना?
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
- सर्वे कां प्रणमन्ति?
Solution of question 4. शुद्धकथनानां समक्षम् |आम्| अशुद्धकथनानां च समक्षं |न| इति लिखत।
(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
- न।
(ख) का-का इति बकस्य ध्वनिः भवति।
- न।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
- आम्।
(घ) गजः लघुकायः, निर्बलः च भवति।
- न।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
- आम्।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
- आम्।
Solution of question 5. मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत।
स्थितप्रज्ञः, यथासमयम्, मेध्यामध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः।
(क) काकः………………भवति।
- काकः मेध्यामध्यभक्षकः भवति।
(ख) ……………परभृत् अपि कथ्यते।
- पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचलः…………………इव तिष्ठति।
- बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।
(घ) मयूरः……………इति नाम्नाऽपि ज्ञायते।
- मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।
(ङ) उलूकः……………….पदनिर्लिप्तः चासीत्।
- उलूकः आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते………………..।
- सर्वेषामेव महत्त्वं विद्यते यथासमयम्।
Solution of question 6. वाच्यपरिवर्तनं कृत्वा लिखत।
उदाहरणम्
– क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।
– क्रुद्धेन सिंहेन इतस्ततः धाव्यते गर्ज्यते च।
(क) त्वया सत्यं कथितम्।
- त्वं सत्यम् उक्तवान्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
- सिंहेन सर्वजन्तवः पृच्छ्यन्ते।
(ग) काकः पिकस्य संततिं पालयति।
- काकेन पिकस्य सन्ततिः पाल्यते।
(घ) मयूरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
- मयूरं विधाता एव पक्षिराजं वनराजं वा कृतवान्
(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
- सर्वे खगाः कमपि खगम् एव वनराजं कर्तुम् इच्छन्ति स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
- सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियताम्।
Solution of question 7. समासविग्रहं समस्तपदं वा लिखत
(क) तुच्छजीवैः
- तुच्छैः जीवैः
- तुच्छैः च तैः जीवैः (कर्मधारयः)
(ख) वृक्षोपरि
- वृक्षस्य उपरि (षष्ठीतत्पुरुषः)
(ग) पक्षिणां सम्राट्
- पक्षिसम्राट् (षष्ठीतत्पुरुषः)
(घ) स्थिता प्रज्ञा यस्य सः
- स्थितप्रज्ञः (बहुव्रीहिः)
(ङ) अपूर्वम्
- न पूर्वम् (नञ्तत्पुरुषः)
(च) व्याघ्रचित्रका
यहाँ एक मुद्रणदोष (टाईपोग्राफिक एरर) है। वस्तुतः यह व्याघ्रचित्रकौ ऐसा होना चाहिए। तब ही इस का समासविग्रह हो सकता है। हमारे पाठ सौहार्दं प्रकृतेः शोभा में भी व्याघ्रचित्रकौ ऐसा ही है। अतः हम यहाँ व्याघ्रचित्रका के स्थान पर व्याघ्रचित्रकौ ही मान कर चल रहे हैं।
- व्याघ्रः च चित्रकः च (समाहारद्वन्द्वः)
इस प्रकार से हम ने सौहार्दं प्रकृतेः शोभा प्रश्नोत्तर (Sauhardam PrakruteH Shobha Solutions) इस लेख के माध्यम से आप के लिए सभी प्रश्नों के उत्तर बताने का प्रयत्न किया है।
यदि आप को कोई शंका, समस्या अथवा प्रश्न हो तो नीचे टिप्पणी के द्वारा हमें अवश्य ही सूचित करें।
धन्यवाद।
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं

शुचिपर्यावरणम्। शीर्षक और ध्रुवपद। CBSE कक्षा दशमी। शेमुषी भाग २
15/05/2020
शुचिपर्यावरणम्। श्लोक २। कज्जलमलिनं धूमं मुञ्चति। CBSE कक्षा दशमी।
26/05/2020