शुचिपर्यावरणम् – प्रश्नोत्तर। NCERT Solutions Class 10 Shuchiparyavaranam
यदि आप शुचिपर्यावरणम् इस पाठ के सभी प्रश्नोत्तरों को पढ़ना चाहते हैं तो यह लेख आप के लिए है। इस लेख में NCERT द्वारा प्रकाशित शेमुषी इस पाठ्यपुस्तक में सम्मिलित पाठ – शुचिपर्यावरणम् इस पाठ के सभी प्रश्न और उत्तर यहाँ हैं।
1. एकपदेन उत्तरं लिखत।
(क) अत्र जीवितं कीदृशं जातम्?
- दुर्वहम्।
(ख) अनिशं महानगरमध्ये किं प्रचलति?
- कालायसचक्रम्।
(ग) कुत्सितवस्तुमिश्रितं किमस्ति?
- भक्ष्यम्।
(घ) अहं कस्मै जीवनं कामये?
- मानवाय।
(ङ) केषां माला रमणीया?
- हरिततरूणां ललितलतानां च।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।
(क) कविः किमर्थं प्रकृतेः शरणम् इच्छति?
- महानगरेषु जीवनं दुर्वहं जातम् अतः कविः प्रकृतेः शरणम् इच्छति।
(ख) कस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते?
- महानगरेषु यानानां पङ्क्तयः अनन्ताः सन्ति इत्यस्मात् कारणात् महानगरेषु संसरणं कठिनं वर्तते।
(ग) अस्माकं पर्यावरणे किं किं दूषितम् अस्ति?
- अस्माकं पर्यावरणे वायुमण्डलं, जलं भक्ष्यं च दूषितं सन्ति।
(घ) कविः कुत्र सञ्चरणं कर्तुम् इच्छति?
- कविः एकान्ते कान्तारे सञ्चरणं कर्तुम् इच्छति।
(ङ) स्वस्थजीवनाय कीदृशे वातावरणे भ्रमणीयम्?
- स्वस्थजीवनाय खगकुलकलरवगुञ्जितवनदेशस्य प्राकृतिके वातावरणे भ्रमणीयम्
(च) अन्तिमे पद्यांशे कवेः का कामना अस्ति?
- अन्तिमे पद्यांशे कविः एवं कामनां करोति यत् मानवानां प्रस्तराणां तले प्राकृतिकाः लता-तरु-गुल्माः पिष्टाः नष्टाः न भवन्तु, मानवानां पाषाणैः निसर्गस्य नाशः न भवतु, तथैव च कविः मानवाय जीवनं कामयते इच्छति न तु जीवने एव मरणम्।
3. सन्धिं/सन्धिविच्छेदं कुरुत।
(क) प्रकृतिः + ………………….. = प्रकृतिरेव
- प्रकृतिः + एव = प्रकृतिरेव
(ख) स्यात् + …….. + …… = स्यान्नैव
- स्यात् + न + एव = स्यान्नैव
(ग) ……… + अनन्ताः = ह्यनन्ताः
- हि + अनन्ताः = ह्यनन्ताः
(घ) बहिः + अन्तः + जगति = …….
- बहिः + अन्तः + जगति = बहिरन्तर्जगति
(ङ) ……. + नगरात् = अस्मान्नगरात्
- अस्मात् + नगरात् = अस्मान्नगरात्
(च) सम् + चरणम् = ………..
- सम् + चरणम् = सञ्चरणम् / संचरणम्
(छ) धूमम् + मुञ्चति = …………
- धूमम् + मुञ्चति = धूमम्मुञ्चति / धूमं मुञ्चति
4. अधोलिखितानाम् अव्ययानां सहायतया रिक्तस्थानानि पूरयत।
भृशम्, यत्र, तत्र, अत्र, अपि, एव, सदा, बहिः
(क) इदानीं वायुमण्डलं ……….. प्रदूषितमस्ति।
(ख) … जीवनं दुर्वहम् अस्ति।
(ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् …. .. लाभदायकं भवति।
(घ) पर्यावरणस्य संरक्षणम् . .. प्रकृतेः आराधना।
(ङ) ……….. समयस्य सदुपयोगः करणीयः।
(च) भूकम्पित-समये ………… गमनमेव उचितं भवति।
(छ) …………… हरितिमा …. …… शुचि पर्यावरणम्।
- उत्तराणि
- (क) इदानीं वायुमण्डलं भृशं प्रदूषितमस्ति।
- (ख) अत्र जीवनं दुर्वहम् अस्ति।
- (ग) प्राकृतिक-वातावरणे क्षणं सञ्चरणम् अपि लाभदायकं भवति।
- (घ) पर्यावरणस्य संरक्षणम् एव प्रकृतेः आराधना।
- (ङ) सदा समयस्य सदुपयोगः करणीयः।
- (च) भूकम्पित-समये बहिः गमनमेव उचितं भवति।
- (छ) यत्र हरितिमा तत्र शुचि पर्यावरणम्।
5. (अ) अधोलिखितानां पदानां पर्यायपदं लिखत।
(क) सलिलम्
- जलम्।
(ख) आम्रम्
- रसालम्।
(ग) वनम्
- कान्तारम्।
(घ) शरीरम्
- तनुः।
(ङ) कुटिलम्
- वक्रम्।
(च) पाषाणः
- प्रस्तरः।
(आ) अधोलिखितपदानां विलोमपदानि पाठात् चित्वा लिखत।
(क) सुकरम्
- दुर्वहम्।
(ख) दूषितम्
- निर्मलम्।
(ग) गृह्णन्ती
- वितरन्ती।
(घ) निर्मलम्
- समलम्।
(ङ) दानवाय
- मानवाय।
(च) सान्ताः
- अनन्ताः।
6. उदाहरणमनुसृत्य पाठात् चित्वा च समस्तपदानि समासनाम च लिखत।
यथा-
विग्रहवाक्यानि – समस्तपदानि – समासनाम
(क) मलेन सहितम्
- समलम् – अव्ययीभाव ।
(ख) हरिताः च ये तरवः (तेषां)
- हरिततरूणाम् – कर्मधारयः।
(ग) ललिताः च याः लताः (तासाम्)
- ललितलतानाम् – कर्मधारयः।
(घ) नवा मालिका
- नवमालिका – कर्मधारयः।
(ङ) धृतः सुखसन्देशः येन (तम्)
- धृतसुखसन्देशः – बहुव्रीहिः।
(च) कज्जलम् इव मलिनम्
- कज्जलमलिनम् – कर्मधारयः।
(छ) दुर्दान्तैः दशनैः
- दुर्दान्तदशनैः – कर्मधारयः।
7. रेखाङ्कित-पदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) शकटीयानम् कज्जलमलिनं धूमं मुञ्चति।
- शकटीयानम् कीदृशं धूमं मुञ्चति?
(ख) उद्याने पक्षिणां कलरवं चेतः प्रसादयति।
- उद्याने केषां कलरवं चेतः प्रसादयति?
(ग) पाषाणीसभ्यतायां लतातरुगुल्माः प्रस्तरतले पिष्टाः सन्ति।
- पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति?
(घ) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
- केषु / कुत्र वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति।
(ङ) प्रकृत्याः सन्निधौ वास्तविकं सुखं विद्यते।
- कस्याः सन्निधौ वास्तविकं सुखं विद्यते।
ज्ञान बांटने से बढ़ता है।
Related
आपको यह भी पसंद आ सकता हैं

शुचिपर्यावरणम्। श्लोक ३। वायुमण्डलं भृशं दूषितम्। CBSE कक्षा दशमी।
30/05/2020